|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.48. अध्यायः 048
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
ब्रह्मणा महर्षीन्प्रति योगिनां चातुर्विध्यादिकथनपूर्वकं मुमुक्षुवेद्यनानार्थकथनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्रह्मोवाच।
केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं वनम्।
केचित्परममव्यक्तं केचित्परमनामयम्।
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम्॥ 14-48-1(93719)
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत्।
आत्मानमुपसङ्म्य सोमृतत्वाय कल्पते॥ 14-48-2(93720)
निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि।
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्॥ 14-48-3(93721)
प्राणायामैरथ प्राणान्संयम्य स पुनःपुनः।
दशद्वादशभिर्वापि चतुर्विंशात्समन्ततः॥ 14-48-4(93722)
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति।
अव्यक्तात्सत्वमुद्रिक्तममृतत्वाय कल्पते॥ 14-48-5(93723)
सत्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः।
अनुमानाद्विजानीमः पुरुषं सत्वसंश्रयम्।
न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः॥ 14-48-6(93724)
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्।
ज्ञानं त्यागोथ संन्यासः सात्विकं वृत्तमिष्यते॥ 14-48-7(93725)
एतेनैवानुमानेन मन्यन्ते वै मनीषिणः।
सत्वं च पुरुषश्चैव तत्र नास्ति विचारणा॥ 14-48-8(93726)
आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः।
क्षेत्रज्ञसत्वयोरैक्यमित्येतन्नोपपद्यते॥ 14-48-9(93727)
पृथग्भूतस्तथा नित्यमित्येतदविचारितम्।
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः॥ 14-48-10(93728)
तथैवैकत्वनानात्वमिष्यते विदुषां नयः।
मशकोदुम्बरे चैक्यं पृथक्त्वमपि दृश्यते॥ 14-48-11(93729)
मत्स्यो यथाऽन्यः स्यादप्सु सम्प्रयोगस्तथा तयोः।
सम्बन्धस्तोयबिन्दूनां पर्णैः कोकनदस्य च॥ 14-48-12(93730)
गुरुरुवाच। 14-48-13x(7863)
इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम्।
पुनः संशयमापन्नाः पप्रच्छुर्मुनिसत्तमाः॥ ॥ 14-48-13(93731)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टचत्वारिंशोऽध्यायः॥ 48 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-48-2 भोक्तुः कालेन वै भवेदिति ट.पाठः॥ 7-48-13 उक्तं विद्यते येषु ते उक्तवन्तः उक्तमर्थं सम्यगवधृतवन्त इत्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|